________________
श्रीशुक उवाच-
श्रीमद्भगवद्भादरायणप्रणीतम्
श्रीमद्भागवतम्
दशमस्कन्धः
(पूर्वार्ध: - अनुवृत्तः )
॥ अथ षडविंशोऽध्यायः ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जलमाविशत् ॥ १ ॥
सत्यधर्मीया संसारसागरात्कंसारिरहमेवोत्कृष्टानुत्क्रष्टुमीश इति भावमाविष्कुर्वन् जलचरनीतं तातममूमुचत्स्वलोकं चैतदादीनामदर्शयदिति कथयत्यस्मिन्नध्याये । तत्रादौ नन्दः क्क, क स नीरचरः, कथं नयनमित्यतस्तत्पूर्वरङ्गं सङ्गमयति शुक इत्याह || श्री शुक इत्यादि । एकादश्यां, निर्गत आहारो यस्य स जनार्दनमभ्यर्च्य द्वादश्यामल्पीयस्यां स्नातुं नन्दः कालिन्द्या यमुनाया जलमाविशत्प्रविवेश । तुः साधनादिसद्भावसूचकः ॥ १ ॥
सुमनोरञ्जनी भक्तवत्सलो भगवान् स्वकीयचरणारविन्दैकशरणान् भवपाशान्मोचयित्वा भक्तिफलत्वेन दास्यमानं स्वलोकं प्रत्याययितुं नन्दस्य वरुणपाशान्मोचनं गोपानां स्वलोकप्रदर्शनं च कृतमित्ययमर्थो निरूप्यतेऽस्मिन्नध्याये । तत्र वरुणपाशबन्धो नन्दस्य कथमभूदित्यतस्तद्वक्तुमुप- क्रमते । एकादश्यां निराहारः सन् जनार्दनं श्रीहरिं समभ्यर्च्य द्वादश्यां स्नातुं जलमाविशत् ।। १ ।। तं गृहीत्वाऽनयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।
सत्यधर्मीया
अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥
वरुणस्य भृत्यस्तं नन्दं गृहीत्वा वरुणस्यान्तिकं समीपमनयत् । तत्र तन्त्रमाह ॥ अविज्ञायेति । वरुणभृत्यः स्वयमविज्ञाय । कलार्धं द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव हि । आमध्याह्नाः क्रिया सर्वा: कर्तव्याः शम्भुशासनादित्यादिशास्त्रमज्ञात्वा निश्यल्पीयस्यां सत्यामप्यासुरीं वेलां मत्वेति शेषः । अवज्ञायेति पाठेऽसुरवेलामवज्ञायानालक्ष्य प्रविष्टमित्यन्वयः । शास्त्रसम्मत्या तदवज्ञानमिति ज्ञेयम् । यद्वक्ष्यति च वरुणोऽजानता मामकेनेति ॥ २ ॥
: